वांछित मन्त्र चुनें

त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥

अंग्रेज़ी लिप्यंतरण

tvam māyābhir anavadya māyinaṁ śravasyatā manasā vṛtram ardayaḥ | tvām in naro vṛṇate gaviṣṭiṣu tvāṁ viśvāsu havyāsv iṣṭiṣu ||

पद पाठ

त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒य॒ । त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गवि॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥ १०.१४७.२

ऋग्वेद » मण्डल:10» सूक्त:147» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:5» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अनवद्य) हे अनिन्दनीय परमात्मन् ! (त्वम्) तू (मायिनं वृत्रम्) अन्धकार से सूर्य को छिपानेवाले मेघ को (श्रवस्यता मनसा) प्राणियों के लिए अन्न की इच्छा रखते हुए मन से (मायाभिः) बुद्धि-प्रक्रिया विद्युत् के द्वारा (अर्दयः) नष्ट करता है (त्वाम्-इत्) तुझे ही (नरः) मनुष्य (गविष्टिषु) सुखविशेष की इच्छा के प्रसङ्गों में तथा (त्वाम्) तुझे (विश्वासु हव्यासु-इष्टिषु) सारी होतव्य-होमने योग्य यजनक्रियाओं में (वृणते) स्तुति करते हैं-स्तुति में लाते हैं ॥२॥
भावार्थभाषाः - परमात्मा अनिन्दनीय है, उसके प्रति नास्तिकभाव नहीं रखना चाहिये, वह प्राणियों के लिए अन्न की उत्पत्ति हो, वृद्धि हो, इसलिए मेघ का हनन करता है जल बरसाने के लिए, वह अध्यात्मसुखविशेष की प्राप्ति की इच्छावाले अध्यात्मप्रसङ्गों में तथा होमने योग्य जनव्यवहारों में मनुष्य उसकी स्तुति करते हैं या मनुष्यों को उसकी स्तुति करनी चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अनवद्य त्वम्) हे अनिन्दनीय परमात्मन् ! त्वं (मायिनं वृत्रम्) माया-अन्धकारः-सूर्यप्रकाशाच्छादकं कर्म वा विद्यते यस्य तं मायिनं मेघम् “मायाः-अन्धकाराद्या इव” [ऋ० १।३२।४ दयानन्दः] “मायिनाम्-येषां....सूर्यप्रकाशाच्छादकं बहुविधं कर्म विद्यते तेषाम्” [ऋ० १।३२।४ दयानन्दः] (श्रवस्यता मनसा) प्राणिभ्योऽन्नमिच्छता मनसा “श्रवः-अन्ननाम” [निघ० २।७] इच्छार्थे क्यच् ‘छान्दसः परेच्छायां च’ (मायाभिः) प्रज्ञा-प्रक्रियाविद्युद्भिः (अर्दयः) अर्दयसि नाशयसि “अर्द हिंसायाम्” [चुरादि०] (त्वाम्-इत्) त्वामेव (नरः) मनुष्याः (गविष्टिषु) सुखविशेषेच्छाप्रसङ्गेषु “गविष्टौ गोः सुखविशेषस्येष्टाविच्छायां सत्याम्” [यजु० ३४।२३ दयानन्दः] त्वां विश्वासु (हव्यासु-इष्टिषु) त्वां सर्वासु होतव्यासु यजनक्रियासु (वृणते) सम्भजन्ते ॥२॥